(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

आश्वमेधिकपर्व


॥ श्रीः ॥
14.109. अध्यायः 109
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति भोजनविधिकथनम्॥ 1 ॥ तथा गोग्रासदानप्रकारकथनम्॥ 2 ॥ तथा तिलप्रशंसनपूर्वकं तेषां मिक्षूणां च ब्राह्मणेन स्वयं यन्त्रे निपीडनप्रतिषेधनम्॥ 3 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text

युधिष्ठिर उवाच।

अन्नदानफलं श्रुत्वा प्रीतोस्मि मधुसूदन।
भोजनस्य विधिं वक्तुं देवदेव त्वमर्हसि॥ 14-109-1(96371)
भगवानुवाच। 14-109-2x(7981)
बोजनस्य द्विजातीनां विधानं शृणु पाण्डव।
स्नातः शुचिः शुचौ देशे निर्जने हुतपावकः॥ 14-109-2(96372)
मण्डलं कारयित्वा च चतुरश्रं द्विजोत्तमः।
क्षत्रियश्चेत्ततो वृत्तं वैश्योऽर्धेन्दुसमाकृतिम्॥ 14-109-3(96373)
आर्द्रपादस्तु भुञ्जीयात्प्राङ्मुखश्चासने शुचौ।
पादाभ्यां धरणीं स्पृष्ट्वा पादेनैकेन वा पुनः॥ 14-109-4(96374)
नैकवासास्तु भुञ्जीयान्न चान्तर्धाय वा द्विजः।
न भिन्नपात्रे भुञ्जीत पर्णपृष्ठे तथैव च॥ 14-109-5(96375)
अन्नं पूर्वं नमस्कुर्यात्प्रहृष्टेनान्तरात्मना।
नान्यदालोकयेदन्नान्न जुगुप्सेन तत्परः॥ 14-109-6(96376)
जुगुप्सितं च यच्चान्नं राक्षसा एव भुञ्जते।
पाणिना जलमुद्धृत्य कुर्यादन्नं प्रदक्षिणम्॥ 14-109-7(96377)
अपेयं तद्विजानीयात्पीत्वा चान्द्रायणं चरेत्।
परिवेषजलादन्यत्पेयमेव तु मन्त्रवत्॥ 14-109-8(96378)
पञ्च प्राणाहुतीः कुर्यात्समन्त्रं तु पृथक्पृथक्॥ 14-109-9(96379)
यथा रसं न जानाति जिह्वा प्रामाहुतौ नृप।
तथा समाहितः कुर्यात्प्राणाहुतिमतन्द्रिकतः॥ 14-109-10(96380)
विदित्वाऽन्नमथान्नादं पञ्च प्राणांश्च पाण्डव।
यः कुर्यादाहुतीः पञ्च तेनेष्टाः पञ्चवायवः॥ 14-109-11(96381)
अतोऽन्यथा तु भुञ्जानो ब्राह्मणो ज्ञानदुर्बलः।
तेनान्नेनासुरान्प्रेतान्राक्षसांस्तर्पयिष्यति॥ 14-109-12(96382)
वक्त्रप्रमाणान्पिण्डांश्च ग्रसेदेकैकशः पुनः।
वक्त्राधिकं तु यत्पिण्डमात्मोच्छिष्टं तदुच्यते॥ 14-109-13(96383)
पिण्डावशिष्टमन्यच्च वक्त्रान्निस्सृतमेव च।
अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत्॥ 14-109-14(96384)
स्वमुच्छिष्टं तु यो भुङ्क्ते यो भुङ्क्ते मुक्तभोजनम्।
चान्द्रायणं चरेन्कृच्छ्रं प्राजापत्यमथापि वा॥ 14-109-15(96385)
स्त्रीपात्रभुङ्नरः पापः स्त्रीणामुच्छिष्टभुक्तथा।
तया सह च यो भुङ्क्ते स भुङ्क्ते मद्यमेव हि।
न तस्य निष्कृतिर्दृष्टा मुनिभिस्तत्वदर्शिभिः॥ 14-109-16(96386)
पिबतः पतिते तोये भोजने मुखनिस्सृते।
अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत्॥ 14-109-17(96387)
पीतशेषं तु तन्नाम न पेयं पाण्डुनन्दन।
पिबेद्यदि हि तन्मोहाद्द्विजश्चान्द्रायणं चरेत्॥ 14-109-18(96388)
पानीयानि पिबेद्यते तत्पात्रं द्विजसत्तमः।
अनुच्छिष्टं भवेत्तावद्यावद्भूमौ न निक्षिपेत्॥ 14-109-19(96389)
मौनी वाऽप्यथवा भूमौ नावलोक्य दिशस्तथा।
भुञ्जीत विधिवद्विप्रो न चोच्छिष्टं प्रदापयेत्॥ 14-109-20(96390)
सदा चात्यशनं नाद्यान्नातिहीनं च कर्हिचित्।
यथाऽन्नेन व्यथा न स्यात्तथा भुञ्जीत नित्यशः॥ 14-109-21(96391)
उदक्यामपि चण्डालं श्वानं सूकरमेव वा।
भुञ्जानो यदि वा पश्येत्तदन्नं च परित्यजेत्।
भुञ्जानो ह्यत्यजन्मोहाद्द्विजश्चान्द्रायणं चरेत्॥ 14-109-22(96392)
केशकीटोपपन्नं च मुखमारुतवीजितम्।
अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत्॥ 14-109-23(96393)
उत्थाय च पुनः स्पृष्टं पादस्पृष्टं च लङ्घितम्।
अन्नं तद्राक्षसं विद्यात्तस्मात्तत्परिवर्जयेत्॥ 14-109-24(96394)
राक्षसोच्छिष्टभुग्विप्रः सप्त पूर्वान्परानपि।
नरके रौरवे घोर स पितॄन्पातयिष्यति॥ 14-109-25(96395)
तस्मिन्नाचमनं कुर्याद्यस्मिन्पात्रे स भुक्तवान्।
यद्युत्तिष्ठत्यनाचान्तो भुक्तवानासनात्ततः।
स्नानं सद्यः प्रकुर्वीत सोन्यथाऽप्रयतो भवेत्॥ 14-109-26(96396)
युधिष्ठिर उवाच। 14-109-27x(7982)
तृणमुष्टिविधानं च तृणमाहात्म्यमेव च।
इक्षोः सोमसमुद्भूतिं वक्तुमर्हसि मानदः॥ 14-109-27(96397)
भगवानुवाच। 14-109-28x(7983)
पितरो वृषभा ज्ञेयो गावो लोकस्य मातरः।
तासां तु पूजया राजन्पूजिताः पितृदेवताः॥ 14-109-28(96398)
सभा प्रपा गृहाश्चापि देवतायतनानि च।
शुद्ध्यन्ति शकृता यासांकिं भूतमधिकं ततः॥ 14-109-29(96399)
ग्रासमुष्टिं परगवे दद्यात्संवत्सरं तु यः।
अकृत्वा स्वयमाहारं प्राप्तस्तत्सार्वकालिकम्॥ 14-109-30(96400)
गावो मे मातरः सर्वाः पितरश्चैव गोवृषाः।
ग्रासमुष्टिं मया दत्तं प्रतिगृह्णीत मातरः॥ 14-109-31(96401)
इत्युक्त्वाऽनेन मन्त्रेण गायत्र्या वा समाहितः।
अभिमन्त्र्य ग्रासमुष्टिं तस्य पुण्यफलं शृणु॥ 14-109-32(96402)
यत्कृतं दुष्कृतं तेन ज्ञानतोऽज्ञानतोपि वा।
तस्य नश्यति तत्सर्वं दुःखप्नं च विनश्यति॥ 14-109-33(96403)
तिलाः पिवित्राः पापघ्ना नारायणसमुद्भवाः।
तिलाञ्श्राद्धे प्रशंसनति दानमेतदनुत्तमम्॥ 14-109-34(96404)
तिलान्दद्यात्तिलान्भक्ष्यात्तिलानप्रातरुपस्पृशेत्।
तिलंतिलमिति ब्रूयात्तिलाः पापहरा हि ते॥ 14-109-35(96405)
क्रीत्वा प्रतिगृहीत्वा वा न विक्रेया द्विजातिभिः।
भोजनाभ्यञ्जनाद्दानाद्योन्यत्तु कुरुते तिलैः।
कृमिर्भूत्वा श्वविष्ठायां पितृभिः सह मज्जति॥ 14-109-36(96406)
तिलान्नपीडयेद्विप्रो यन्त्रचक्रे स्वयं नृप।
पीडयन्हि द्विजो मोहान्नरकं याति रौरवम्॥ 14-109-37(96407)
इक्षुवंशोद्भवः सोमः सोमवंशोद्भवा द्विजाः।
इक्षुं न पीडयेत्तस्मादिक्षुघात्यात्मघातकः॥ 14-109-38(96408)
इक्षुदण्डसहस्राणामेकैकेन युधिष्ठिर।
ब्रह्महत्यामवाप्नोति द्विजश्चेद्यन्त्रपीडकः।
तस्मान्न पीडयेदिक्षुं यन्त्रचक्रे द्विजोत्तमः॥ ॥ 14-109-39(96409)

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि नवाधिकशततमोऽध्यायः॥ 109 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.